Aug 12, 2019

आराधयेम निज राष्ट्रम् ...


आराधयेम निजराष्ट्रम्

आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम् ...
तनुजं हृद्जं धनजं तनु-हृद्-धन जीवनजम्
आराधयेम निज राष्ट्रं आराधयेम निज राष्ट्रम्

अंतरजं मुखजं कृतिजं निश्चल निर्मलमति भाजः ।
श्रद्धया च विनतशिरस्काः अभिवादयेम निज राष्ट्रम् ॥  
आराधयेम निज...

निजसहास शैशव सहितं निजविकसद्यौवन सहितम् ।
प्रौढिमयुत जीवन सहितं संपूजयेम निजराष्ट्रम् ॥
आराधयेम निज...

संपठ्याऽतीतं स्वीयं परिवृत्यैतिह्यं स्वीयम् ।
ज्ञात्वा भवितव्यं स्वीयम् संपूजयेम निजराष्ट्रम् ॥
आराधयेम निज...

युगयुगजा वयं स्मरामो प्रज्वलितरनैक घटनाः ।
या मातुःसेवाय पथे कृत्वा या ता दुर्गमनाः ॥

अस्माभिर्याष्वभिषीक्ताः जननीरिपुशोणितकुण्डैः ।
मण्डितातथाऽस्माभिर्या जननीरिपुगण शतमुण्डैः ॥

अस्माभिः प्रतिष्ठिता याः सांस्कृतिक उच्चवरपीठैः ।
कृत्वाऽऽरूढ़ा साऽकाशीत् सततं जगतः शासनम् ॥ 

अथ कालचक्रदुर्गत्या 
तद् भग्नमुच्चवरपीठम् ।
निज तनु-हृद्-वसूनि दत्वा 
आराधयेम निज राष्ट्रम्
आराधयेम निज राष्ट्रम् ...

©अनुवादकः – डॉ. सुरेशचंद्र टी. व्यास

Watch it on YouTube - Click Here 

To download the pdf file of the patriotic song, 
Please click here ---> Download the pdf file. 

www.sanskritwala.com




No comments:

Post a Comment